शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
I meditate upon Lord Vishnu — clad in white, all-pervading, moon-hued, four-armed and ever serene of face — for the stilling of all obstacles.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥
I take refuge in Vishvaksena, whose attendants — over a hundred, led by the elephant-faced Ganesha — ceaselessly destroy every obstacle.
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥
I bow to Vyasa — great-grandson of Vasishtha, grandson of Shakti, the stainless son of Parashara, father of Shuka, a treasure-house of austerity. Salutations to Vyasa who is the very form of Vishnu, and to Vishnu in the form of Vyasa; again and again I bow to that treasure of the Veda, the descendant of Vasishtha.
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ॐ नमो विष्णवे प्रभविष्णवे ॥
Salutations to that all-powerful Vishnu, by the mere remembrance of whom one is freed from the bondage of birth and worldly existence. Om, salutations to Vishnu, the Almighty.
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ॐ नमो विष्णवे प्रभविष्णवे ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
युधिष्ठिर उवाच — किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥
Yudhishthira asked: Who is the one God of the universe? What is the one supreme refuge? By praising and worshipping whom do human beings attain well-being? Which is the greatest of all dharmas? By chanting what is a being freed from the bondage of birth and rebirth?
युधिष्ठिर उवाच — किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भीष्म उवाच — जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥
Bhishma replied: One who, ever-vigilant, praises the Lord of the universe — the God of gods, the infinite Purushottama — with the thousand names, crosses beyond all sorrow. This, in my view, is the highest of all dharmas: that a person should always, with devotion, worship the lotus-eyed Lord with hymns of praise.
भीष्म उवाच — जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
I bow to Vishnu, the one Lord of all the worlds, remover of the fear of existence — of peaceful form, reclining on the serpent Shesha, lotus-naveled, Lord of the gods; the support of the universe, vast as the sky, cloud-hued, of auspicious limbs; beloved of Lakshmi, lotus-eyed, realised by yogis in meditation.
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अथ विष्णोः सहस्रनामस्तोत्रम् । हरिः ॐ ।
Now begins the recitation of the thousand names of Vishnu. Hari Om.
अथ विष्णोः सहस्रनामस्तोत्रम् । हरिः ॐ ।
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥
He is the Universe itself; the all-pervading Vishnu; He for whom oblations are offered; the Lord of past, present and future; the creator of beings, their sustainer, pure Being itself, the Soul of all beings and the nourishing source of all existence.
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
The Pure Soul, the Supreme Self, and the highest goal of the liberated; the Imperishable, the Supreme Person, the Witness of all, the Knower of the field, and the changeless Akshara.
पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥
He is Yoga itself and the leader of all yogis; the Lord of Pradhana and Purusha; He whose form is the Man-Lion; the glorious; Keshava; and Purushottama, the Supreme Person.
योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥
Sarva, Sharva, Shiva, Sthanu, the origin of beings, the imperishable treasure; the source, the giver of existence, the upholder, the cause of birth, the Lord and Ruler of all.
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥
The Self-born, the source of joy, the radiant Sun, the lotus-eyed, the deep-voiced; without beginning or end, the upholder, the dispenser of fruits, and the highest support of all elements.
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥
The immeasurable, Hrishikesha, Padmanabha, the Lord of the immortals; the cosmic architect Vishvakarma, Manu, Tvashta, the most massive, the most ancient, and the ever-fixed.
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥
The ungraspable, the eternal, Krishna, the red-eyed, the destroyer of foes; the ever-full, the support of the three directions, the purifier, and the supreme auspiciousness.
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥
Ishana the ruler, the giver of vital breath, Life itself; the eldest and the most excellent, the Lord of creatures; Hiranyagarbha the golden womb, the womb of the earth, Madhava, and Madhusudana.
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥
The Lord, the mighty strider, the wielder of the bow, the wise; valour and the very stride of progress; the unsurpassed, the unassailable, the grateful knower of all deeds, pure action, and the master of the Self.
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥
The Lord of the gods, the refuge and bliss of all; the seed of the universe and source of beings; He who is the Day, the Year, the serpent of time, the inner conviction, and the all-seeing one.
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥
The unborn, the Lord of all, the ever-accomplished, perfection itself and the bestower of perfection; the first cause of all, the never-falling Achyuta; Vrishakapi, the immeasurable Self, free from all bondage.
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥
Vasu, pure-minded, Truth itself, the even-souled, the immeasurable, the impartial; the unfailing, the lotus-eyed, He of righteous action and righteous form.
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥
Rudra, the many-headed, the tawny one, the womb of the universe, of pure renown; the immortal, the ever-firm pillar, the noble-statured, the great ascetic.
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥
All-pervading, all-knowing, the radiant Sun, Vishvaksena, Janardana; the Veda, the knower of the Veda, the flawless, the limbs of the Veda, and the wise seer.
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥
The overseer of the worlds, of the gods, and of dharma; both the done and the undone; the fourfold Self, of the four manifestations, the four-tusked and the four-armed.
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥
The radiant, the food and the eater of food, the all-enduring, the first-born of the world; the sinless, the victorious conqueror, the womb of the universe, and Punarvasu.
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥
Upendra, the dwarf Vamana, the tall one; the unfailing, the pure, the mighty; beyond Indra, the gatherer, the creation itself, the self-controlled, restraint and the inner controller Yama.
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥
Worthy of knowing, the divine physician, the ever-united yogi, the slayer of heroic foes, Madhava, the sweet honey; beyond the senses, of great wisdom, of great energy and great strength.
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥
Of great intellect, great valour, great power and great splendour; of indescribable form, the glorious, the immeasurable Self, the upholder of the great mountain.
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥
The great archer, the supporter of the earth, the abode of Shri, the goal of the good; Aniruddha, the joy of the gods, Govinda, Lord of the knowers.
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥
Marichi, the subduer, the swan, the beautiful-winged, the best of serpents; of golden navel, the great ascetic, lotus-naveled, the Lord of creatures.
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥
The deathless, the all-seeing, the lion; the joiner and bond of all, the steadfast; the unborn, the hard-to-bear, the ruler and teacher, of far-famed soul, the slayer of the enemies of the gods.
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥
The Guru and the greatest Guru, the supreme abode; Truth and of truthful prowess; the unwinking and the winking, the garlanded one, the Lord of speech of generous intellect.
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥
The foremost leader and guide of all, the glorious; justice itself, the leader, the mover of all; the thousand-headed, the universal Soul, the thousand-eyed and thousand-footed.
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥
The turner of the wheel of the world, the withdrawn Self, the enveloped one, the great destroyer; the day of dissolution, the cosmic fire, the wind, and the upholder of the earth.
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥
Of perfect grace, the serene-souled, the upholder, enjoyer and pervader of all; the doer of good, the honoured, the saint, Jahnu, Narayana and Nara.
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥
The innumerable, the immeasurable Self, the distinguished one, who disciplines the good, the pure; of accomplished aim and accomplished will, the giver of success and the means of success.
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥
The bull of dharma, the supreme being, Vishnu, of righteous ordinances and righteous heart; the increaser of all, the ever-growing, the distinct one, the ocean of the Vedas.
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥
Of beautiful arms, the hard-to-vanquish, the eloquent; the great Indra, the giver of wealth, wealth itself; of manifold forms, of vast form, Shipivishta, the illuminator.
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥
The bearer of vigour, lustre and radiance; the embodiment of light, the burning blazer; the prosperous, of clear and imperishable speech, the sacred Mantra, the moonbeam and the splendour of the sun.
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥
The source of the nectar-rayed moon, the Sun, the rabbit-marked moon, the Lord of the gods; the medicine for the world's ills, the bridge across existence, of true righteousness and prowess.
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥
The Lord of past, present and future; the wind, the purifier, the fire; the destroyer of desire and the fulfiller of desire, the beloved, Desire itself, the giver of desires, the Lord.
भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥
The maker of the ages and their revolver; of manifold powers, the great devourer; the unseen, of manifest form, the conqueror of thousands and of the endless.
युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥
The desired one, the unexcelled who is dear to the good; the crested, Nahusha, the bull of dharma; the destroyer of wrath, who provokes righteous wrath, the doer, of mighty arms, the supporter of the earth.
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥
Achyuta, the renowned, Life-breath and its giver, the younger brother of Indra; the abode of waters, the substratum, the ever-vigilant, the firmly established.
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥
Skanda, the upholder of Skanda, the burden-bearer, the boon-giver, borne by the wind; Vasudeva, the vast radiance, the primal God, Purandara the destroyer of foes' citadels.
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥
The sorrowless, the deliverer who ferries beings across, the valiant, the heroic Shauri, the Lord of beings; the favourable, of a hundred sacrifices, the lotus-holder, the lotus-eyed.
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥
Padmanabha the lotus-naveled, the lotus-eyed, the lotus-wombed, the bearer of bodies; of great prosperity, the prosperous, the ancient Self, the large-eyed, the Garuda-bannered.
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥
The peerless, Sharabha, the awesome; the knower of the right time, the oblation, Hari; endowed with all auspicious marks, the consort of Lakshmi, the victor in battle.
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥
The imperishable, the red one, the Path; the cause, Damodara, the all-enduring; the upholder of the earth, the greatly fortunate, the swift one, of boundless appetite.
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥
The arising one, the agitator, the resplendent God; bearer of Shri in His heart, the Supreme Lord; the instrument, the cause, the doer, the un-doer, the unfathomable, the hidden.
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥
Effort and steadfast resolve, of firm position; the support, the giver of stations, the ever-fixed; of supreme prosperity, perfectly clear, content, full, and of auspicious gaze.
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥
Rama, the resting-place, the passionless, the Path; the one to be led and the leader and the un-leadable; the heroic, the best of the powerful, Dharma itself, and the supreme knower of dharma.
रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥
Vaikuntha, the Purusha, Life and its giver, the sacred Pranava, the vast Prithu; the golden-wombed, Shatrughna, the all-pervading, the air, Adhokshaja.
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥
The seasons, Sudarshana, Time, the supreme-stationed, the receiver; the fierce, the year, the able Daksha, the resting-place, and the all-skilful.
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥
Expansion, the firm and immovable pillar, the standard of measure, the imperishable seed; meaning and beyond meaning, the great treasure, of great enjoyment and great wealth.
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥
The ever-content, the most massive, the un-born, the sacrificial post of dharma, the great sacrifice; the hub of the stars, the Lord of stars, the patient, the lean, the well-wishing.
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥
Yajna, the one worshipped, the greatly worshipped, the rite, the sacrificial session, the goal of the good; the all-seeing, the liberated Self, the omniscient, and Knowledge supreme.
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥
Of noble vows, of pleasant face, the subtle, of auspicious sound, the giver of joy, the kind friend; the enchanter of the mind, the conqueror of anger, of heroic arms, the render of foes.
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥
The awakener and giver of cosmic sleep, the self-controlled, the all-pervading; the Self of many, the doer of many deeds; the year, the affectionate, the calf-cherisher, the jewel-wombed, the Lord of wealth.
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥
The protector and doer of dharma, the embodiment of dharma; the existent and the non-existent, the perishable and the imperishable; the all-knower, the thousand-rayed, the ordainer, of distinguished marks.
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥
The hub of the sun's rays, established in pure Sattva, the lion, the great Lord of beings; the primal God, the great God, the Lord of gods, the supporter of gods, the Guru.
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥
The transcendent, the Lord and protector of cattle and of speech, attainable through knowledge, the ancient; the supporter of the body, beings and the elements, the enjoyer, the Lord of monkeys, the giver of abundant gifts.
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥
The drinker of Soma and of nectar, the moon; the conqueror of many, the best of many; humility and victory, of truthful resolve, born in the Dasharha clan, the Lord of the Satvatas.
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥
The living Self, the disciplinarian, the witness, Mukunda, of measureless valour; the ocean of being, the infinite Self, who reclines on the great ocean, the ender of all.
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥
The unborn, the greatly worthy of worship, of natural state, the conqueror of foes, the delighter; bliss, the source of joy, joy itself, of true dharma, Trivikrama.
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७॥
The great sage, the teacher Kapila, the grateful knower, the Lord of the earth; of three strides, the overseer of the thirty gods, of mighty horn, the maker of the end of evil.
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥
The great Boar, Govinda, of good army, adorned with golden armlets; the secret, the deep, the unfathomable, the hidden, the bearer of the discus and mace.
महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥
The creator, perfect-limbed, the unconquered, Krishna, the firm, Sankarshana, Achyuta; Varuna, the son of Varuna, the tree of shelter, the lotus-eyed, the great-minded.
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥
The Lord, the destroyer of fortunes, the blissful, garlanded with forest-flowers, armed with the plough; the Sun, the light of the sun, the all-enduring, the best of all paths.
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥
Of good bow, of the axe, the terrible, the giver of wealth; touching the heavens, the all-seeing Vyasa, the Lord of speech, the womb-less.
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥
Of the three Samas, the singer of the Sama, the Sama itself; liberation, the medicine and the physician; the maker of renunciation, the tranquil, the peaceful, the firm goal, peace, the supreme refuge.
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥
Of auspicious limbs, the giver of peace, the creator; the gladdening, who reclines on the waters; the benefactor of cattle, their Lord and protector, of bull-like eyes, dear to the righteous.
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥
The non-returning, the withdrawn Self, the abridger, the doer of welfare, the auspicious; bearing Shrivatsa on His chest, the abode of Shri, the Lord of Shri, the best of the prosperous.
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥
The giver of Shri, the Lord of Shri, the abode of Shri, the treasure of Shri, the manifester of Shri; the bearer of Shri, the giver of prosperity, the supreme good, the glorious, the refuge of the three worlds.
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥
Of beautiful eyes and beautiful limbs, of a hundred joys, the blissful, the Lord of the hosts of light; the self-conquered, who submits to none, of true renown, the cutter of all doubt.
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥
The exalted, the all-eyed, having no master, the eternal and the ever-fixed; reposing on the earth, the ornament of all, prosperity itself, the sorrowless, the destroyer of sorrow.
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥
The radiant, the worshipped, the pot holding all, the pure Self, the purifier; Aniruddha, the unrivalled, Pradyumna, of measureless valour.
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥
The slayer of Kalanemi, the hero, Shauri, the Lord of brave men; the Self of the three worlds and their Lord, Keshava, the slayer of Keshi, Hari.
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥
Kamadeva, the protector of love, the desirable, the beloved, the maker of scriptures; of indescribable form, Vishnu, the heroic, the infinite, Dhananjaya.
कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥
Devoted to Brahman, the creator of the Veda, Brahma, the Brahman itself, the increaser of the Veda; the knower of the Veda, the Brahmana, the Vedic, the knower of Brahman, dear to Brahmanas.
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥
Of great strides, of great deeds, of great splendour, the great serpent; of great sacrifices, the great sacrificer, the great offering and the great oblation.
महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥
Worthy of praise, fond of praise, the hymn, the praise and the praiser, fond of righteous battle; the full, the fulfiller, the holy, of holy renown, the disease-less.
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥
Swift as the mind, the maker of sacred fords, the source of wealth, the giver of wealth; the giver of treasures, Vasudeva, the indwelling wealth, the pure-minded, the oblation.
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥
The good goal, of good deeds, pure Existence, of good manifestation, the supreme refuge of the good; the commander of heroes, the best of the Yadus, the dwelling-place, of the beautiful Yamuna.
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥
The abode of all beings, Vasudeva, the resting-place of all life, the cosmic fire; the destroyer of pride, the giver of pride, the radiant, the hard-to-bear, the unconquered.
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥
Of universal form, of mighty form, of brilliant form, yet formless; of manifold forms, the unmanifest, of a hundred forms and a hundred faces.
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥
The One, the many, the impeller, the radiant 'Who', the 'What', the 'That' — the supreme unexcelled state; the kinsman of the worlds, their Lord, Madhava, the lover of His devotees.
एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥
Of golden colour, of golden limbs, of excellent limbs, adorned with sandal-armlets; the slayer of foes, the unequalled, the void, the drinker of butter, the immovable and the moving.
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१॥
The bull among the radiant, the bearer of lustre, the best of all weapon-bearers; the holder and the restrainer, the intensely engaged, of manifold horns, the elder of Gada.
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥
Of four forms, four arms, four manifestations, four ways; the fourfold Self, of fourfold being, the knower of the four Vedas, the One-footed.
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥
Returning fully, yet the unreturning Self; the hard-to-conquer, the un-transgressable; the hard-to-attain, the hard-to-reach, the inaccessible fortress, of difficult abode, the slayer of difficult foes.
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥
Of auspicious limbs, the deer of the worlds, the fine thread weaving the cosmos, the increaser of the thread; of Indra's deeds, of great deeds, of accomplished deeds, the maker of scriptures.
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥
The arising one, the beautiful, the lovely, of jewel-navel, of beautiful eyes; the sun, the offerer of oblations, the horned, Jayanta the conqueror, the all-knowing victor.
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥
Of golden, imperturbable seed, the Lord of the lords of all speech; the great lake, the great abyss, the great being, the great treasure.
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥
The gladdening, the giver of joy, the formless ground; the rain-cloud, the purifier, the wind; the devourer of nectar, of nectarean body, the all-knowing, facing all directions.
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥
Easy to attain, of good vows, the accomplished; the conqueror and tormentor of foes; the banyan, the cluster-fig, the holy fig, the slayer of Chanura and the Andhras.
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥
Of a thousand flames, of seven tongues, of seven fuels, of seven steeds; the formless, the sinless, the inconceivable, the maker and the destroyer of fear.
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥
The atom and the vast, the lean and the gross; bearer of qualities yet beyond qualities, the great one; the unsupported and self-supported, of pleasant face, the head of the lineage, its increaser.
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥
The bearer of all burdens, the celebrated, the yogi, the Lord of yogis, the giver of all desires; the hermitage and the toiler, the patient, the beautiful-winged, borne by the wind.
भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥
The wielder of the bow, the science of archery, punishment, the punisher, restraint itself; the unconquered, the all-enduring, the controller, free of all restraint, the inner ruler.
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥
Endowed with Sattva, the pure, Truth, devoted to true dharma; the inner intention, worthy of love, the worthy, the doer of dear deeds, the increaser of love.
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥
Moving through the heavens, Light itself, of beautiful radiance, the devourer of oblations, the all-pervading; the sun, the shining Virochana, Surya, the impeller Savitr, of sun-like eyes.
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥
The infinite, the devourer of oblations, the enjoyer, the giver of happiness, of manifold birth, the first-born; the ever-content, the ever-forbearing, the support of the worlds, the wonderful.
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥
The eternal, the most ancient, Kapila, the tawny Kapi, the imperishable; the giver of welfare, the doer of welfare, welfare itself, the enjoyer and bestower of all blessing.
सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥
Free of fierceness, the bearer of earrings and discus, of valorous and mighty rule; beyond sound yet bearing sound, the cooling, the maker of night.
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥
Free of cruelty, the gentle, the able, the favourable, the best of the forbearing; the wisest, free of fear, of holy fame in hearing and chanting.
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥
The deliverer who ferries across, the destroyer of evil deeds, the holy, the dispeller of bad dreams; the slayer of foes, the protector, the saint, the Life, the all-pervading support.
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥
Of endless forms and endless glory, the conqueror of wrath, the remover of fear; of perfect symmetry, of profound nature, He who is all the directions and beyond them.
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥
Without beginning, the earth and the atmosphere, Lakshmi, the heroic, of radiant armlets; the begetter, the origin of all births, the terrible, of terrible prowess.
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥
The support and resting-place, the un-upholder needing no support, the flower-like-smiling, the ever-awake; the upward-moving, the treader of the true path, the giver of life, the Pranava, the supreme stake of all.
आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥
The measure of all, the abode of life-breath, the bearer and very life of breath; Reality and its knower, the one Self, beyond birth, death and old age.
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
The tree of plenty spanning earth, atmosphere and heaven, the deliverer, the impeller Savitr, the great-grandfather; sacrifice, the Lord of sacrifice, the sacrificer, the limb and the vehicle of sacrifice.
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
The bearer, the doer, the master, the enjoyer and the means of sacrifice; the consummator of sacrifice, the mystery of sacrifice, and verily the food and the eater of food.
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥
The self-born source, self-manifested, Vaikhana, the singer of the Sama; the joy of Devaki, the creator, the Lord of the earth, the destroyer of sin.
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥
He who bears the conch and the sword Nandaka, the holder of the discus, the wielder of the Sharnga bow and the mace; the bearer of the wheel-weapon, the imperturbable, armed with every weapon.
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥
Garlanded with forest-flowers, bearing mace, Sharnga bow, conch, discus and the sword Nandaka — may the glorious Narayana, Vishnu, Vasudeva, fully protect us!
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
भीष्म उवाच — इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥
Bhishma said: Thus have I fully recited the thousand divine names of the great-souled Keshava, worthy of being sung.
भीष्म उवाच — इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥
The person who daily listens to this and who recites it will meet with no misfortune, neither in this world nor the next.
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥
Praising Purushottama daily with these thousand names, full of devotion, a person swiftly crosses over all difficulties. The mortal who takes refuge in Vasudeva, devoted to Vasudeva, his soul cleansed of every sin, attains the eternal Brahman.
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥
For the devotees of Vasudeva no evil ever exists; for them no fear of birth, death, old age or disease arises.
न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
अर्जुन उवाच — पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम । भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ श्रीभगवानुवाच — यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥
Arjuna said: O lotus-petal-eyed, lotus-naveled, best of gods — become the protector of your loving devotees, O Janardana. The Blessed Lord replied: O Pandava, whoever wishes to praise Me with the thousand names — by even a single verse of it I am truly praised; of this there is no doubt.
अर्जुन उवाच — पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम । भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ श्रीभगवानुवाच — यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
व्यास उवाच — वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
Vyasa said: By the indwelling of Vasudeva the three worlds are pervaded. You are the abode of all beings — O Vasudeva, salutations to You.
व्यास उवाच — वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
पार्वत्युवाच — केनोपायेन लघुना विष्णोर्नामसहस्रकम् । पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ ईश्वर उवाच — श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥
Parvati asked: O Lord, by what easy means do the wise recite Vishnu's thousand names daily? I wish to hear it. Lord Shiva answered: 'Sri Rama, Rama, Rama' — I delight in the delightful Rama. O fair-faced one, the name of Rama is equal to all the thousand names.
पार्वत्युवाच — केनोपायेन लघुना विष्णोर्नामसहस्रकम् । पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ ईश्वर उवाच — श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
ब्रह्मोवाच — नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥
Brahma said: Salutations to the Infinite One of a thousand forms — of a thousand feet, eyes, heads and arms; to the eternal Purusha of a thousand names, the sustainer of a thousand-crore ages — salutations.
ब्रह्मोवाच — नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
सञ्जय उवाच — यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
Sanjaya said: Wherever there is Krishna, the Lord of Yoga, and wherever there is Arjuna the archer — there are fortune, victory, prosperity and unfailing righteousness: such is my conviction.
सञ्जय उवाच — यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥
Whatever I do — with body, speech, mind, senses, intellect or soul, whether by deliberate will or by the promptings of nature — all of it I surrender to the Supreme, to Narayana.
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.
इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॐ तत् सत् ॥
Thus concludes the divine Vishnu Sahasranama Stotram. Om Tat Sat.
इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॐ तत् सत् ॥
తెలుగు అర్థం త్వరలో అందుబాటులో ఉంటుంది.